सिद्धांत रहस्यम् – षोडस ग्रंथ
श्री वल्लभाचार्य जी महाप्रभुजी रचित षोडस ग्रंथ मे से एक सिद्धांत रहस्यम् ग्रंथ |
सिद्धांत रहस्यम्
श्रावण श्यामले पक्षे एकादश्यां महानिशि ।
साक्षात भगवता प्रोक्तं तदक्षरश: उच्यते ॥१॥
ब्रमसम्बंध करणात्, सर्वेषां देह जीवयोः ।
सर्व दोषनिवृत्तिर्हि, दोषाः पंचविधा: स्मृताः ॥२॥
सहजा देश कालोत्था, लोकवेद निरूपिताः ।
संयोगजाः सपर्शजाश्च न मन्तव्याः कथन्चन ॥३॥
अन्यथा सर्व दोषाणां न निवृत्ति: कथंचन ।
असमर्पित वस्तुनां तस्माद्वर्जनमाचरेत् ॥४॥
निवेदिभिः समर्यैव, सर्व कुर्यादिति स्थितिः ।
न मतं देवे देवस्य, सामिभुक्त समर्पणम् ॥५॥
तस्मादादौ सर्वकार्ये सर्ववस्तु समर्पणम् ।
दत्तापहार वचनं तथा च सकलं हरे : ॥६॥
न ग्राह्ममिति वाक्यं हि, भिन्न मार्ग परंमतम् ।
सेवकानां यथालोके, व्यवहारः प्रसिध्यति ॥७॥
तथा कार्य समप्यैॅव, सर्वेषां ब्रह्मता ततः ।
गंगात्वं सर्व दोषाणां, गुण दोषादि वर्णना
गंगात्वेन निरूप्या स्यात् – तद्दवत्रापि चैव हि ॥८॥
॥ इति श्रीमद् वल्लभाचार्य विरचितं सिद्धान्तरहस्यं सम्पूर्णम् ॥