पुष्टिप्रवाहमर्यादाभेदः – षोडश ग्रंथ

श्री वल्लभाचार्यजी द्वारा रचित षोडश ग्रंथ मे से एक ग्रंथ  || पुष्टिप्रवाहमर्यादाभेदः ||

पुष्टि-प्रवाह-मर्यादा” विशेषेण पृथक् पृथक् ।। 

जीव-देह-क्रिया” भेदैः प्रवाहेण’ फलेन’ च ।।१।। 

वक्ष्यामि सर्व-सन्देहा न भविष्यन्ति यच्छ्रुतेः ।। 

भक्तिमार्गस्य कथनात्” पुष्टिरस्तीति निश्चयः ।।२।।

‘द्वौ   भूतसर्गावि’त्युक्तेः प्रवाहोऽपि व्यवस्थितः ।। 

वेदस्य विद्यमानत्वात्” मर्यादापि व्यवस्थिता ।।३।।

कश्चिदेव हि भक्तो हि ‘यो मद्भक्त’ इतीरणात् ।। 

सर्वत्रोत्कर्षकथनात् पुष्टिर् अस्तीति निश्चयः ।।४।।

न सर्वोऽतः प्रवाहाद् हि भिन्नो वेदाच्च भेदतः ।। 

‘यदा यस्ये’ति वचनात् ‘नाहं वेदैर् ‘इतीरणात् ।।५।।

मार्गेकत्वेऽपि चेद् अन्त्यौी तन् भक्त्यागमौ  मतौ  ।। 

न तद् युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ।।६।।

जीव-देह-कृतीनां च भिन्नत्वं नित्यता-श्रुतेः ।। 

यथा तद्वत  पुष्टिमार्गे द्वयोरपि निषेधतः ।।७।।

प्रमाण-भेदाद् भिन्नोहि पुष्टिमागों निरूपितः ।। 

सर्गभेदं’ प्रवक्ष्यामिः स्वरूपाऽङ्ग क्रिया युतम् ।।८।।

इच्छा-मात्रेण मनसा प्रवाहं सृष्टवान् हरिः ।।

वचसा वेदमार्ग हि पुष्टि कायेन निश्चयः ।।९।। 

मूलेच्छातः फलं लोके वेदोक्तं वैदिकेपि च ।।

कायेन तु फलं पुष्टी भिन्नेच्छातोऽपि नैकधा ।।१०।।

‘तान् अहं द्विषतो’ वाक्याद् भिन्ना जीवाः प्रवाहिणः” ।।

अत एवेतरी भिन्नी सान्ती मोक्ष-प्रवेशतः ।।११।। 

तस्माज् जीवाः पुष्टिमार्गे भिन्नाएव न संशयः ।।

भगवद्-रूप-सेवार्थं तत्सृष्टिः नान्यथा भवेत् ।।१२।।

स्वरूपेणावतारेण लिङ्गेन च गुणेन च ।।

तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ।।१३।।

तथापि यावता कार्य तावत् तस्य करोति हि ।।

तेहि द्विधा शुद्ध मिश्र-भेदान् मिश्रास् त्रिधा पुनः ।।१४।।

प्रवाहादि-विभेदेन भगवत्कार्य-सिद्धये ।। 

पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ।।१५।।

मर्यादवा गुणज्ञास्ते शुद्धाः प्रेम्णाति-दुर्लभाः 

एवं सर्गस्तु तेषां हि… … 

                   फलं त्वत्र निरूप्यते ।।१६।।

भगवानेव हि फलं स यथाविर्भयेद् भुवि ।। 

गुण-स्वरूप-भेदेन तथा तेषां फलं भवेत् ।।१७।। 

आसक्ती भगवान् एव शापं दापयति क्वचित् ।। 

अहंकारे ऽथवा लोके तन्मार्ग स्थापनाय हि।।१८।।

न ते पाषण्डतां यान्ति नच रोगाद्युपद्रवः ।। 

महानुभावाः प्रायेण शास्त्रं शुद्धत्व हेतवे ।।१९।।

भगवत्-तारतम्येन तारतम्यं भजन्ति हि ।। 

लौकिकत्वं वैदिकत्वं कापट्यात् तेषु नान्यथा ।।२०।।

वैष्णवत्वं हि सहर्ज ततो ऽन्यत्र विपर्ययः ।।

 सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास् तथा परे ।।२१।।

‘चर्षणी’ शब्दवाच्यास् ते सर्वे सर्ववत्र्मसु ।। 

क्षणात् सर्वत्वम् आयान्ति रुचिस्ततेषां न कुत्रचित् ।।२२।।

तेषां क्रियानुसारेण सर्वत्र सकलं फलम् ।। 

प्रवाहस्थान् प्रवक्ष्यामि 

स्वरूपाऽङ्ग क्रिया युतान् ।।२३।।

जीवास्ते ह्यासुराः सर्वे ‘प्रवृत्तिञ्चे ‘ति वर्णिताः ।। 

ते च द्विधा प्रकीर्त्यन्ते हाज्ञ दुर्श-विभेदतः ।।२४।।

दुर्गास् ते भगवत्प्रोक्ता हाज्ञास् तान् अनु ये पुनः ।। 

प्रवाहेऽपि समागत्य पुष्टिस्थस् तैर् न युज्यते ।।२५।।

सोऽपि तैस् तत्कुले जातः कर्मणा जायते यतः ।।

Like Like