जलभेदः ग्रंथ – षोडश ग्रंथ
श्री वल्लभाचार्यजी रचित षोडश ग्रंथ मे से एक ग्रंथ : || जलभेदः ||
नमस्कृत्य हरिं वक्ष्ये तद्गुणानां विभेदकान् ।।
भावान् विंशतिधा भिन्नान् सर्वसन्देह-वारकान् ।।१।।
गुणभेदास्तु तावन्तो यावन्तो हि जले मताः ।।
गायकाः कृपसंकाशा ‘गन्धर्वा’ इति विश्रुताः ।।२।।
कृप-भेदास्तु यावन्तस् तावन्तस् तेऽपि सम्मताः ।।
‘कुल्याः’ पौराणिकाः प्रोक्ताः पारम्पर्ययुता भुवि ।।३।।
क्षेत्र-प्रविष्टास् ते चापि संसारोत्पत्ति हेतवः ।।
वेश्यादि-सहिता मत्ता गायका ‘गर्त’ संज्ञिताः ।।४।।
जलार्थमेव गर्तास् तु नीचा गानोपजीविनः ।।
‘हदा ‘स्तु पण्डिताः प्रोक्ता भगवच्छास्त्रतत्पराः ।।५।।
सन्देह-वारकास् तत्र ‘सूदा’ गम्भीर मानसाः ।।
‘सरः-कमल-सम्पूर्णाः प्रेम-युक्तास्तथा बुधाः ।।६।।
अल्पश्रुताः प्रेमयुक्ता ‘वेशन्ताः’ परिकीर्तिताः ।।
कर्मशुद्धाः ‘पल्वलानि’ तथाल्पश्रुत-भक्तयः ।।७।।
योग-ध्यानादि-संयुक्ता गुणा ‘वर्ष्याः ‘ प्रकीर्तिताः ।।
तपो-ज्ञानादि-भावेन ‘स्वेदजास्तु प्रकीर्तिताः ।।८।।
अलौकिकेन ज्ञानेन ये तु प्रोक्ता हरेर् गुणाः ।।
कादाचित्काः शब्दगम्याः ‘पतच्छब्दाः’ प्रकीर्तिताः ।।९।।
देवाद्युपासनोद्भूताः ‘पृष्वा’ भूमेर् इवोद्गताः ।।
साधनादि-प्रकारेण नवधा भक्तिमार्गतः ।।१०।।
प्रेमपूर्त्या स्फुरद्धर्माः ‘स्यन्दमानाः’ प्रकीर्तिताः ।।
यादृशास् तादृशाः प्रोक्ता वृद्धि-क्षय-विवर्जिताः ।।११।।
‘स्थावरास्’ ते समाख्याता मर्यादक-प्रतिष्ठिताः ।।
अनेक-जन्म-संसिद्धा जन्म-प्रभृति सर्वदा ।।१२।।
सङ्गादि-गुण-दोषाभ्यां वृद्धि-क्षय-युता भुवि ।।
निरन्तरोद्गमयुता ‘नद्यस्’ ते परिकीर्तिताः ।।१३।।
एतादृशाः स्वतन्त्राश् चेत् ‘सिन्धवः’ परिकीर्तिताः ।।
पूर्णा भगवदीया ये शेष व्यासाग्नि-मारुताः ।।१४।।
जड-नारद-मैत्राद्यास् ते ‘समुद्राः’ प्रकीर्तिताः ।।
लोक-वेद-गुणः मिश्र भावेनैके हरेर् गुणान् ।।१५।।
वर्णयन्ति समुद्रास् ते ‘क्षाराद्याः षट्’ प्रकीर्तिताः ।।
गुणातीततया शुद्धान् सच्चिदानन्दरूपिणः ।।१६।।
सर्वान् एव गुणान् विष्णोर् वर्णयन्ति विचक्षणाः ।।
ते’ऽमृतोदाः’ समाख्यातास् तद्-वाक्यानं सुदुर्लभम् ।।१७।।
तादृशानां क्वचिद् वाक्यं दूतानाम् इव वर्णितम् ।।
अजामिलाकर्णनवद् बिन्दुपानं प्रकीर्तितम् ।।१८।।
रागाज्ञानादि-भावानां सर्वथा नाशनं यदा ।
तदा लेहनम् इत्युक्तं स्वानन्दोद्गम-कारणम् ।।१९।।
उद्धृतोदकवत् ‘सर्व’ पतितोदकयत् तथा ।।
उक्तातिरिक्त-वाक्यानि फलं चापि तथा ततः ।।२०।।
इति जीवेन्द्रियगता नाना-भावं गता भुवि ।।
रूपतः फलता चैव गुणा विष्णोर् निरूपिताः ।।२१।।