अन्तःकरणप्रबोधः – षोडश ग्रंथ
श्री वल्लभाचार्यजी महाप्रभुजी रचित षोडश ग्रंथ मे से एक ग्रंथ अन्तःकरणप्रबोधः ग्रंथ |
जब श्री महाप्रभुजी को श्रीनाथजी तीसरी बार भूतल त्याग करके नित्य लीला मे पधारने की आज्ञा की | तब श्री महाप्रभुजी ने अपने अन्तः करण को समजाते हुए , बोध देते हुए स्वयं को सम्बोधन करते हुए हम सबको शिक्षा दी है |
|| अन्तःकरणप्रबोधः ||
अन्तःकरण ! मद् वाक्यं सावधानतया शृणु ।।
कृष्णात् परं नास्ति दैवं वस्तुतो दोषवर्जितम् ।।१।।
चाण्डाली चेद् राजपत्नी जाता राज्ञा च मानिता ।।
कदाचिद् अपमानेऽपि मूलतः का क्षतिर् भवेत् ।।२।।
समर्पणाद् अहं पूर्वम् उत्तमः किं सदा स्थितः ।।
का ममाधमता भाव्या पश्चात्तापो यतो भवेत् ।।३।।
सत्यसंकल्पतो विष्णुः नान्यथा तु करिष्यति ।।
आज्ञेय कार्या सततं स्वामिद्रोहो ऽन्यथा भवेत् ।।४।।
सेवकस्य तु धर्मो ऽयं स्वामी स्वस्य करिष्यति’ ।।
आज्ञा पूर्वन्तु या जाता गङ्गा-सागर-सङ्गमे।।५।।
यापि पश्चान् मधुवने न कृतं तद् द्वयं मया ।।
देह-देश-परित्यागस् तृतीयो लोकगोचरः ।।
पश्चात्तापः कथं तत्र सेवको ऽहं न चान्यथा ।।
लौकिक-प्रभुवत् कृष्णो न द्रष्टव्यः कदाचन ।।७||
सर्व समर्पितं भक्त्या कृतार्थोऽसि सुखी भवः ।।
प्रौढापि दुहिता यद्वत् स्नेहात् नः प्रेष्यते वरे।।८।।
तथा देहे न कर्तव्यं वरस् तुष्यति नान्यथा ।।
लोकवच चेत् स्थितिर् में स्यात् किंस्याद् इति विचारय ।।९।।
अशक्ये हरिरेवास्ति मोहं मा गाः कथञ्चन ।।
इति श्रीकृष्णदासस्य वल्लभस्य हितं वचः ।।१०।।
चित्तं प्रति यदाकर्ण्य भक्तो निश्चिन्ततां व्रजेत् ।।