पञ्चपद्यानि ग्रंथ – षोडश ग्रंथ

श्री वल्लभाचार्यजी महाप्रभुजी रचित षोडश ग्रंथ मे से एक ग्रंथ : || पञ्चपद्यानि ||

श्रीकृष्ण-रस-विक्षिप्त-मानसा रति वर्जिताः ।।

अनिर्वृता लोक-वेदे ते मुख्याः श्रवणोत्सुकाः ।।१।। 

विक्लिन्न-मनसो ये तु भगवत्-स्मृति-विह्वलाः ।।

अर्थक-निष्ठास् ते चापि मध्यमाः श्रवणोत्सुकाः ।।२।।

निःसन्दिग्धं कृष्ण तत्त्वं सर्वभावेन ये विदुः ।। 

ते त्वावेशातु विकला निरोधाद् वा नचान्यथा ।।३।।

पूर्ण-भावेन पूर्णार्थाः कदाचित् नतु सर्वदाः ।। 

अन्यासक्तास्तु ये केचिद् अधमाः परिकीर्तिताः ।।४।।

अनन्य-मनसो मत्यां उत्तमाः श्रवणादिषु ।।

देश-काल-द्रव्य-कर्तृ-मन्त्र-कर्म प्रकारतः ।।५।। ।। 

इतिः श्रीवल्लभाचार्यविरचितानि पञ्चपद्यानि ।।

Like Like