।। श्रीवल्लभाष्टकम् ।।
(भूमिपे श्रीवल्लभस्वरूपमें प्रादुर्भूत होयवेको हेतु अरु प्रयोजन)
श्रीमद्वृन्दावनेन्दु-प्रकटित-रसिकानन्द-सन्दोहरूप- स्फूर्जद्रासादिलीलामृतजलधिभराक्रान्तसर्वोऽपि शश्वत् ।|
तस्यैवात्मानुभाव-प्रकटन-हृदयस्याज्ञया प्रादुरासीद् भूमौ यः सन्मनुष्याकृतिरतिकरुणस् तं प्रपद्ये हुताशम् |।१।|
नाविर्भूयाद् भवांश्चेद् अधिधरणितलं भूतनाथोदितासन्- मार्गध्वान्तान्धतुल्या निगमपथगतौ देवसर्गेऽपि जाताः।।
घोषाधीशं तदेमे कथमपि मनुजाः प्राप्नुयुर् नैव दैवी सृष्टिर्व्यर्था च भूयान् निजफलरहिता देव! वैश्वानरैषा ।।२।|
न ह्यन्यो वागधीशात् श्रुतिगणवचसां भावमाज्ञातुम् ईष्टे यस्मात् साध्वी स्वभावं प्रकटयति वधूर् अग्रतः पत्युरेव ।।
तस्मात् श्रीवल्लभाख्य त्वदुदितवचनाद् अन्यथा रूपयन्ति भ्रान्ता ये ते निसर्गत्रिदशरिपुतया केवलान्धन्तमोगाः || ३ ||
प्रादुर्भूतेन भूमौ व्रजपतिचरणाम्भोज-सेवाख्य-वत्र्म- प्राकट्यं यत् कृतं ते तदुत निजकृते श्रीहुताशेति मन्ये ।।
यस्मादस्मिन् स्थितो यत्किमपि कथमपि क्वाप्युपाहर्तुमिच्छ- त्यद्धा तद् गोपिकेशः स्ववदनकमले चारुहासे करोति || ४ ||
उष्णत्वैकस्वभावो ऽप्यतिशिशिरवचः -पुंजपीयूषवृष्टिर् – आर्तेष्वत्युग्र-मोहासुर-नृषु युगपत् तापमप्यत्र कुर्वन् ।।
स्वस्मिन् कृष्णास्यतां त्वं प्रकटयसि च नो भूतदेवत्वमेतद् यस्माद् आनन्ददं श्रीव्रजजननिचये नाशकं चासुराग्नेः ||५ ||
आम्नायोक्तं यदम्भो भवनम् अनलतस् तच्च सत्यं विभो यत् सर्गादौ भूतरूपाद् अभवद् अनलतः पुष्करं भूतरूपम् ।।
आनन्दैकस्वरूपात् त्वदधिभु यदभूत् कृष्णसेवारसाब्धिश् चानन्दैक-स्वरूपस् तदखिलमुचितं हेतुसाम्यं हि कार्ये || ६ ||
स्वामिन् श्रीवल्लभाग्ने क्षणमपि भवतः सन्निधानेकृपातः प्राणप्रेष्ठ-व्रजाधीश्वर-वदन-दिदृक्षार्ति-तापो जनेषु ।।
यत् प्रादुर्भावम् आप्नोत्युचिततरम् इदं यत्तु पश्चाद् अपीत्थं दृष्टेऽप्यस्मिन् मुखेन्दौ प्रचुरतरम् उदेत्येव तच्चित्रमेतत् || ७ ||
अज्ञानाद्यन्धकारप्रशमनपटुता-ख्यापनाय त्रिलोक्याम् अग्नित्वं वर्णितं ते कविभिरपि सदा वस्तुतः कृष्णएव ।।
प्रादुर्भूतो भवान् इत्यनुभव-निगमाध्युक्त-मानैर् अवेत्य त्वां श्रीश्रीवल्लभेमे निखिलबुधजनाः गोकुलेशं भजन्ते ।८।
।। इति श्रीमद् विट्ठलदीक्षितविरचितं श्रीवल्लभाष्टकं सम्पूर्णम् ।।