श्री कृष्णाश्रय: – षोडस ग्रंथ
श्री वल्लभाचार्य जी महाप्रभुजी रचित षोडस ग्रंथ मे से एक श्री कृष्णाश्रय: ग्रंथ |
श्रीकृष्णाश्रय:
सर्वमार्गेषु नष्टेषु कलौ च खल धर्मिणि ।
पाष्ण्ड प्रचुरे लोके कृष्ण एव गतिर्मम ॥१॥
म्लेच्छाक्रान्तेषु देशेषु पापैक निलयेषु च ।
सत्पीडा व्यग्र लोकेषु कृष्ण एव गतिर्मम ॥२ ॥
गंगादि तीर्थ वर्येषु दुष्टैरेवा वृते ष्विह ।
तिरोहिता धिदेवेषु कृष्ण एव गतिर्मम ॥३॥
अहंकार विमुढेषु सत्सु पापानुवर्तिषु ।
लाभ पूजार्थ यत्नेषु कृष्ण एव गतिर्मम ॥४॥
अपरिज्ञान नष्टेषु मन्त्रेष्वव्रत योगिषु ।
तिरोहितार्थ देवेषु कृष्ण एव गतिर्मम ॥५॥
नानावाद विनष्टेषु सर्व कर्म व्रतादिषु ।
पाषंडेक प्रयत्नेषु कृष्ण एव गतिर्मम ॥६॥
अजामिला दिदोषाणां नाशको नुभवे स्थितः ।
ज्ञापिताखिल माहात्म्यः कृष्ण एव गतिर्मम ॥७||
प्राकृताः सकला देवा गणितानन्दकं बृहत ।
पूर्णानन्दो हरिस्तस्मात कृष्ण एव गतिर्मम ॥८॥
विवेक धैर्य भक्त्यादि रहितस्य विशेषतः ।
पापासक्तस्य दीनस्य कृष्ण एव गतिर्मम ॥९॥
सर्व सामर्थ्य सहितः सर्वत्रैवा खिलाथॅकृत ।
शरणस्थ समुद्धारं कृष्णं विज्ञापयाम्यहम ॥१०॥
कृष्णाश्रयमिदं स्तोत्रं यः पठेत कृष्ण सन्निधौ ।
तस्याश्रयो भवेत कृष्ण इति श्री वल्लभोब्रवीत ॥११॥
॥ इति श्रीमद् वल्लभाचार्यविरचितः कृष्णाश्रय स्तोत्रं सम्पूर्णः ॥