भक्तिवर्धिनी – षोडश ग्रंथ
श्री वल्लभाचार्यजी रचित षोडश ग्रंथ मे से एक ग्रंथ : भक्तिवर्धिनी ग्रंथ |
|| भक्तिवर्धिनी ||
यथा भक्तिः प्रवृद्धा स्यात् तथोपायो निरूप्यते ।।
बीजभावे दृढे तु स्यात् त्यागात् श्रवण-कीर्तनात् ।।१।।
बीज-दाढयं-प्रकारस्तु गृहे स्थित्वा स्वधर्मतः ।।
अव्यावृत्तो भजेत् कृष्णं पूजया श्रवणादिभिः ।।२।।
व्यावृत्तोऽपि हरौ चित्तं श्रवणादी न्यसेत् सदा ॥
ततः प्रेम तथासक्तिः’ व्यसनं च यदा भवेत् ।।३।।
बीजं तद् उच्यते शास्त्रे दृढं यन् नापि नश्यति ।।
स्नेहाद् रागविनाशः स्याद् आसक्त्या स्याद् गृहारुचिः ॥४।
गृहस्थानां बाधकत्वम् अनात्मत्वं च भासते ।।
यदास्याद् व्यसनं कृष्णे कृतार्थ: स्यात् तदैव हि ।।५।।
तादृशस्यापि सततं गेह-स्थानं विनाशकम् ।।
त्यागं कृत्वा यतेद् यस्तु तदर्थार्थक-मानसः ।।६।।
लभते सुदृढां भक्तिं सर्वतोऽप्यधिकां पराम् ।।
त्यागे वाधक-भूयस्त्वं ‘दुःसंसर्गात् तथान्नतः ।।७।।
अतः स्थेयं हरिस्थाने तदीयैः सह तत्परैः ।।
अदूरे विप्रकर्षे वा यथा चित्तं न दुष्यति।।८।।
सेवायां वा कथायां वा यस्यासक्तिर् दृढा भवेत् ।।
यावज्जीवं तस्य नाशो न क्वापीति मतिर् मम।।९।।
बाध-सम्भावनायान्तु नैकान्ते वास इष्यते ।।
हरिस् तु सर्वतो रक्षां करिष्यति न संशयः ।।१०।।
इत्येवं भगवच्-छास्त्रं गूढतत्त्वं निरूपितम् ।।
य एतत् समधीयीत तस्यापि स्याद् दृढा रतिः ।।११।।
।॥ इति श्रीवल्लभाचार्यविरचिता भक्तिवर्धिकी सम्पूर्णा ।।