सेवा फलम् – षोडश ग्रंथ
श्री वल्लभाचार्यजी महाप्रभुजी रचित षोडश ग्रंथ मे से एक ग्रंथ सेवा फलम् ग्रंथ |
।। सेवाफलम् ।।
यादृशी सेवना प्रोक्ता तत्सिद्धी फलम् उच्यते ।।
अलीकिकस्य दाने हि चाद्यः सिध्येन् मनोरथः ।।१।।
फलं वा हाधिकारों” वा न कालोऽत्र नियामकः ।।
उद्वेगः प्रतिबन्धो वा भोगो” वा स्यात् तु बाधकम् ।।२।।
अकर्तव्यं भगवतः सर्वथा चेद् गतिर् न हि ।।
यथा वा तत्त्वनिर्धारो विवेकः साधनं मतम् ।।३।।
बाधकानां परित्यागो भोगेऽप्येकं तथा परम् ।।
निष्प्रत्यूहं महान् भोगः प्रथमे विशते सदा ।।४।।
सविघ्नोऽल्पो घातकः स्याद् बलाद् एती सदा मतौ ।।
द्वितीये” सर्वथा चिन्ता त्याज्या संसार-निश्चयात् ।।५।।
नत्वाद्ये दातृता नास्ति तृतीये बाधकं गृहम् ।।
अवश्येयं सदा भाव्या सर्वम् अन्यन् मनोभ्रमः ।।६।।
तदीयेर् अपि तत्कार्य पुष्टी नैव विलम्बयेत्’ ।।
गुणक्षोभेऽपि द्रष्टव्यम् एतदेवेति मे मतिः ।।७।।
कुसृष्टिर् अत्र वा काचिद् उत्पद्येत स वै भ्रमः ।।
।। इति श्रीवल्लभाचार्यविरचितं सेवाफलं सम्पूर्णम् ।।