नवरत्नम् स्तोत्रम् – षोडस ग्रंथ
श्री वल्लभाचार्य जी महाप्रभुजी रचित षोडस ग्रंथ मे से एक नवरत्नम् स्तोत्रम् ग्रंथ |
|| नवरत्नम् स्तोत्रम् ||
चिन्ताकापि न कार्या, निवेदितात्मभिः कदापीति ।
भगवानपि पुष्टिस्थो, न करिष्यति लौकिकीं च गतिम ॥ १ ॥
निवेदनं तु स्मर्त्तव्यं, सर्वथा ताद्रशेेर्जन |
सर्वेश्च सर्वात्मा, निजेच्छातः करिष्यति: ॥ २ ॥
सर्वेषां प्रभुसंबंधो, न प्रत्येकमिति स्थितिः ।
अतोन्य विनियोगेsपि चिन्ता का स्वस्य सोऽपिचेत ॥ ३ ॥
अज्ञानादथवा ज्ञानात् , कृतमात्म निवेदनम्
यैः कृष्णसात्कृत प्राणैस्तेषां का परिदेवना ॥ ४ ॥
तथा निवेदने चिन्ता, त्याज्या श्री पुरुषोत्तमे ।
विनियोगेsपि सा त्याज्या, समर्थो हि हरिः स्वतः ॥ ५ ॥
लोके स्वास्थ्यं तथा वेदे, हरिस्तु न करिष्यति ।
पुष्टिमार्ग स्थितो यस्मात्- साक्षिणो भवता खिलाः ॥ ६ ॥
सेवाकृतिर्गुरोराज्ञा – बाधनं वा हरीच्छया ।
अतः सेवा परं चित्तं, विधाय स्थीयतां सुखम् ॥ ७ ॥
चित्तोद्वेगं विधायापि, हरिर्यद्यत करिष्यति ।
तथैव तस्य लीलेति, मत्वा चिन्तां द्रुतं त्यजेत ॥ ८ ॥
तस्मात्सर्वातमना नित्यं, श्री कृष्णः शरणं मम ।
वदद् भिरेव सततं, स्थेयमित्येव मे मति: ॥ ९ ॥
|| इति श्रीमद् वल्लभाचार्य विरचितं श्री नवरत्न स्तोत्रं संपुणम् ||